वांछित मन्त्र चुनें

दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या । क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥

अंग्रेज़ी लिप्यंतरण

daivyā hotārā prathamā purohita ṛtasya panthām anv emi sādhuyā | kṣetrasya patim prativeśam īmahe viśvān devām̐ amṛtām̐ aprayucchataḥ ||

पद पाठ

दैव्याः॑ । होता॑रा । प्र॒थ॒मा । पु॒रःऽहि॑ता । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒मि॒ । सा॒धु॒ऽया । क्षेत्र॑स्य । पति॑म् । प्रति॑ऽवेशम् । ई॒म॒हे॒ । विश्वा॑न् । दे॒वान् । अ॒मृता॑न् । अप्र॑ऽयुच्छतः ॥ १०.६६.१३

ऋग्वेद » मण्डल:10» सूक्त:66» मन्त्र:13 | अष्टक:8» अध्याय:2» वर्ग:14» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (प्रथमा) हे प्रमुख प्रसिद्ध (पुरोहिता) पुरोहितो ! सामने वर्तमान ! (दैव्या होतारा) देवों–विद्वानों में योग्य ज्ञान के देनेवाले अध्यापक और उपदेशको ! (साधुया-ऋतस्य पन्थाम्-अन्वेमि) सद्भाव से वेदज्ञान के मार्गानुसार मैं चलूँ, (क्षेत्रस्य पतिम्) जगत् के स्वामी परमात्मा को (प्रतिवेशम्) जीवमात्र में प्रविष्ट को (ईमहे) याचना करते हैं-प्रार्थित करते हैं (विश्वान् देवान्-अमृतान्-अप्रयुच्छतः) सारे विद्वानों जीवन्मुक्तों प्रमादरहितों को प्रार्थित करते हैं ॥१३॥
भावार्थभाषाः - ऊँचे अध्यापक और उपदेशकों से वेदाध्ययन और श्रवण करके तदनुसार आचरण करें और परमात्मा की स्तुति प्रार्थना उपासना करते हुए जीवन्मुक्तों की श्रेणी में हो जाएँ ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (प्रथमा) हे प्रमुखौ प्रतमौ प्रसिद्धौ (पुरोहिता) पुरोहितौ पुरतो वर्तमानौ (दैव्या होतारा) देवेषु विद्वत्सु योग्यौ “देवेषु विद्वत्सु साधु” [यजु० २८।७ दयानन्दः] होतारौ ज्ञानस्य दातारौ कर्त्तारावध्यापकोपदेशकौ “होतारौ दातारावध्यापकोदेशकौ” [यजु० २८।४० दयानन्दः] (साधुया-ऋतस्य पन्थाम्-अन्वेमि) सद्भावेन वेदज्ञानस्य मार्गमनुगच्छेयमनुसरेयम् “लिङर्थे लेट्” [अष्टा० ३।४।७] (क्षेत्रस्य पतिम्) जगतः स्वामिनं परमात्मानम्” क्षेत्रस्य क्षयन्ति निवसन्ति यस्मिञ्जगति तस्य” [ऋ० ७।३५।१० दयानन्दः] (प्रतिवेशम्) विशति शरीरेषु यः स जीवो वेशः “विश् प्रवेशने” [भ्वादिः] ‘ततोऽच् कर्तरि’ प्रतिगतो वेशं जीवमिति प्रतिवेशः परमात्मा तं (ईमहे) याचामहे प्रार्थयामहे वयं (विश्वान् देवान्-अमृतान्-अप्रयुच्छतः) तथा सर्वान् विदुषोऽमृतान् जीवन्मुक्तान् सदाऽप्रमादान् सावधानान्-ईमहे प्रार्थयामहे-वाञ्छामहे ॥१३॥